स्तोत्र
    Kali Stotram

    काली स्तोत्र

    Kali Stotram

    ॐ कालिके परमेश्वरि ह्रीं ह्रीं स्वाहा।
    सर्वानन्दकरी देवि नारायणि नमोऽस्तुते॥
    
    खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
    शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
    नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
    यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्॥
    
    या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
    पापात्मनां कृतधियां हृदयेषु बुद्धिः।
    श्रद्धा सतां कुलजनप्रभवस्य लज्जा
    तां त्वां नताः स्म परिपालय देवि विश्वम्॥
    
    विश्वेश्वरी त्वं परिपासि विश्वं
    विश्वात्मिका धारयसि त्वमेव।
    विश्वेशवन्द्या भवती भवन्ति
    विश्वाश्रया ये त्वयि भक्तिनम्राः॥
    
    या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता।
    नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
    
    या देवी सर्वभूतेषु मातृरूपेण संस्थिता।
    नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
    
    या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता।
    नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
    
    सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।
    शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तुते॥
    
    ॥ इति श्रीकालीस्तोत्रं सम्पूर्णम् ॥
    Ad Space