स्तोत्र
    Yamuna Ashtakam

    यमुना अष्टकम्

    Yamuna Ashtakam

    नमामि यमुनामहं सकलसिद्धिहेतुं मुदा
    मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम्।
    तटस्थनवकाननप्रकटमोदपुष्पाम्बिकां
    अनन्तगुणभूषितां जनमनोहरां सेविताम्॥ १॥
    
    कलिन्दगिरिमस्तके पतदमन्दपूरोज्ज्वला
    विलासगमनोल्लसत्कमलपत्रपाथोधरा।
    सुघोषगतिदन्तुरा समधिरूढदोलोत्तमा
    मुकुन्दरति-वर्धिनी जयति पद्मबन्धोः सुता॥ २॥
    
    भुवं भुवनपावनीमधिगतामनेकस्वनैः
    प्रियाभिरभिसेवितां शुकमयूरहंसादिभिः।
    तरङ्गभुजकङ्कणप्रकट मुक्तिकावलुकां
    नितम्बतटसुन्दरां नमत कृष्णतुल्यप्रियाम्॥ ३॥
    
    अनन्तगुणभूषिते शिवविरिञ्चिदेवस्तुते
    घनाघननिभे सदा ध्रुवपराशराभीष्टदे।
    विशुद्धमथुरातटे सकलगोपगोपिवृते
    कृपाजलधिसंस्थिते मम मनः सुखं भावय॥ ४॥
    
    यया चरणपद्मजा मुररिपोः प्रियं भावुका
    समागमनतोऽभवत् सकलसिद्धिदा सेविताम्।
    तया सदृशतामियात् कमलजासपत्नीर्यतः
    हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम्॥ ५॥
    
    नमोऽस्तु ते यमुने सदा तव चरित्रमत्यद्भुतं
    न जातु यमयातना भवति ते पयःपानतः।
    यमोऽपि भगिनीसुतान् कथमु हन्ति दुष्टानपि
    प्रियो भवति सेवनात् तव हरेर्यथा गोपिकाः॥ ६॥
    
    ममास्तु तव सन्निधौ तनुनवत्वमेवात्मना
    न दुर्लभतमं रतिं मुररिपौ मुकुन्दप्रिये।
    अतोऽस्तु तव लालनां सुरधुनी परं सङ्गमात्
    तवैव भुवि कीर्तिता न तु कदा पि पुष्टिस्थितिः॥ ७॥
    
    स्तुतिं तव करोति कः कमलजासपत्नि प्रिये
    हर्यादनुसेवया भवति सौख्यमामोक्षतः।
    इयं तव कथाधिका सकलगोपिकासंगमः
    स्मरप्रसवसौरभैः सकलगात्रजैः संगमः॥ ८॥
    
    फलश्रुति:
    तवाष्टकमिदं मुदा पठति सूरसूते सदा
    समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः।
    तथा सकलसिद्धयो मुररिपोश्च सन्तुष्यति
    स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः॥
    
    इति श्रीमद्वल्लभाचार्यविरचितं श्री यमुना अष्टकं सम्पूर्णम्।
    Ad Space